अर्हन्तो भगवत इन्द्रमहिताः, सिद्धाश्च सिद्धीश्वरा, आचार्याः जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः| श्रीसिद्धान्तसुपाठकाः, मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु नः मंगलम्||
|
श्रीमन्नम्र - सुरासुरेन्द्र - मुकुट - प्रद्योत - रत्नप्रभा- भास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः| ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवः स्तुत्या योगीजनैश्च पञ्चगुरवः कुर्वन्तु नः मंगलम्||
|
सम्यग्दर्शन-बोध-व्रत्तममलं, रत्नत्रयं पावनं, मुक्ति श्रीनगराधिनाथ - जिनपत्युक्तोऽपवर्गप्रदः| धर्म सूक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयं, प्रोक्तं च त्रिविधं चतुर्विधममी, कुर्वन्तु नः मंगलम्||
| |
नाभेयादिजिनाः प्रशस्त-वदनाः ख्याताश्चतुर्विंशतिः, श्रीमन्तो भरतेश्वर-प्रभृतयो ये चक्रिणो द्वादश| ये विष्णु-प्रतिविष्णु-लांगलधराः सप्तोत्तराविंशतिः, त्रैकाल्ये प्रथितास्त्रिषष्टि-पुरुषाः कुर्वन्तु नः मंगलम्||
|
ये सर्वौषध-ऋद्धयः सुतपसो वृद्धिंगताः पञ्च ये, ये चाष्टाँग-महानिमित्तकुशलाः येऽष्टाविधाश्चारणाः| पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धिश्वराः, सप्तैते सकलार्चिता मुनिवराः कुर्वन्तु नः मंगलम्||
|
ज्योतिर्व्यन्तर-भावनामरग्रहे मेरौ कुलाद्रौ स्थिताः, जम्बूशाल्मलि-चैत्य-शखिषु तथा वक्षार-रुप्याद्रिषु| इक्ष्वाकार-गिरौ च कुण्डलादि द्वीपे च नन्दीश्वरे, शैले ये मनुजोत्तरे जिन-ग्रहाः कुर्वन्तु नः मंगलम्|| |
कैलाशे वृषभस्य निर्व्रतिमही वीरस्य पावापुरे| चम्पायां वसुपूज्यसुज्जिनपतेः सम्मेदशैलेऽर्हताम्| शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतः, निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु नः मंगलम्||
|
यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो, यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक्| यः कैवल्यपुर-प्रवेश-महिमा सम्पदितः स्वर्गिभिः कल्याणानि च तानि पंच सततं कुर्वन्तु नः मंगलम्|| |
सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते, सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः| देवाः यान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे, धर्मादेव नभोऽपि वर्षति नगैः कुर्वन्तु नः मंगलम्||
|
इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्करम्, कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषः| ये श्र्रण्वन्ति पठन्ति तैश्च सुजनैः धर्मार्थ-कामाविन्ताः, लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि||
|